अश्वो॒ न क्रन्द॒ञ्जनि॑भिः॒ समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे। स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः॥
aśvo na krandañ janibhiḥ sam idhyate vaiśvānaraḥ kuśikebhir yuge-yuge | sa no agniḥ suvīryaṁ svaśvyaṁ dadhātu ratnam amṛteṣu jāgṛviḥ ||
अश्वः॑। न। क्रन्द॑न्। जनि॑ऽभिः। सम्। इ॒ध्य॒ते॒। वै॒श्वा॒न॒रः। कु॒शि॒केभिः॑। यु॒गेऽयु॑गे। सः। नः॒। अ॒ग्निः। सु॒ऽवीर्य॑म्। सु॒ऽअश्व्यम्। दधा॑तु। रत्न॑म्। अ॒मृते॑षु॑। जागृ॑विः॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे मनुष्यो यो वैश्वानरो जागृविरग्निर्जनिभिः सह क्रन्दन्नश्वो न कुशिकेभिर्युगेयुगे समिध्यते स नः सुवीर्यं स्वश्व्यममृतेषु रत्नं दधातु तं यूयमपि संप्रयुङ्ग्ध्वम् ॥३॥